|
|
 |
 |
|
|
१३ अनुशासनपर्व.jpg)
॥ श्रीः ॥
13.230. अध्यायः 230
अथ दानधर्मपर्व ॥ 1 ॥
Mahabharata - Anushaasana Parva - Chapter Topics
परमेश्वरेण पार्वतींप्रति रौरवादिनरकविभजनपूर्वकं प्राणिनां दुष्कृततारतम्येन तेषु यातनानुभवप्रकारकथनम्॥ 1 ॥ तथा यातनानुभवानन्तरं कर्मशेषफलतया नानानीचयोनिप्राप्त्यादिकथनम्॥ 2 ॥
Mahabharata - Anushaasana Parva - Chapter Text
उमोवाच।
भगवंस्ते कथं तत्र दण्ड्यन्ते नरकेषु वै।
कति ते नरका घोराः कीदृशास्ते महेश्वर॥ 13-230-1(90436)
महेश्वर उवाच। 13-230-2x(7616)
शृणु भामिनि तत्सर्वं पञ्चैते नरकाः स्मृताः।
भूमेरधस्ताद्विहिता घोरा दुष्कृतकर्मणाम्॥ 13-230-2(90437)
प्रथमं रौरवं नाम शतयोजनमायतम्।
तावत्प्रमाणविस्तीर्णं तामसं पापपीडितम्॥ 13-230-3(90438)
भृशं दुर्गन्धि परुषं क्रिमिभिर्दारुणैर्वृतम्।
अतिघोरमनिर्देश्यं प्रतिकूलं ततस्ततः॥ 13-230-4(90439)
ते चिरं तत्र तिष्ठन्ति न तत्र शयनासने।
क्रिमिभिर्भक्ष्यमाणाश्च विष्ठागन्धसमायुताः॥ 13-230-5(90440)
एवंप्रमाणमुद्विग्ना यावत्तिष्ठन्ति तत्र ते।
यातनाभ्यो दशगुणं नरके दुःखमिष्यते॥ 13-230-6(90441)
तत्र चात्यन्तिकं दुःखमिष्यते च शुभेक्षणे
क्रोशन्तश्च रुद्रन्तश्च वेदनास्तत्रि भुञ्जते॥ 13-230-7(90442)
भ्रमन्ति दुःखमोक्षार्थं ज्ञाता कश्चिन्न विद्यते।
दुःखस्यान्तरमात्रं तु ज्ञानं वा न च लभ्यते॥ 13-230-8(90443)
महारौरवसंज्ञं तु द्वितीयं नरकं प्रिये।
तस्माद्द्विगुणितं विद्धि माने दुःखे च रौरवात्॥ 13-230-9(90444)
तृतीयं नरकं तत्र कण्टिकावनसंज्ञितम्।
ततो द्विगुणितं तच्च पूर्वाभ्यां दुःखमानयोः।
महापातकसंयुक्ता घोरास्तस्मिन्विशन्ति हि॥ 13-230-10(90445)
अग्निकुण्डमिति ख्यातं चतुर्थं नरकं प्रिये।
एतद्द्विगुणितं तस्माद्यथानिष्टसुखं तथा॥ 13-230-11(90446)
ततो दुःखं हि सुमहदमानुषमिति स्मृतम्।
भुञ्जते तत्रतत्रैव दुःखं दुष्कृतकारिणः॥ 13-230-12(90447)
तत्र दुःखमनिर्देश्यं वहद्धोरं यथा तथा।
पञ्चेन्द्रियैरसम्बाधात्पञ्चकष्टमिति स्मृतम्।
भुञ्जते तत्रतत्रैव दुःखं दुष्कृतकारिणः॥ 13-230-13(90448)
अमानुषार्हजं दुःखं महाभूतैश्च भुञ्जते।
अतिघोरं चिरं कृत्वा महाभूतानि यान्ति तम्॥ 13-230-14(90449)
पञ्च् कष्टेन हि समं नास्ति दुःखं तथा परम्।
दुःखस्थानमिति प्राहुः पञ्चकष्टमिति प्रिये॥ 13-230-15(90450)
एवं त्वेतेषु तिष्ठन्ति प्राणिनोः दुःखभागिनः।
अन्ये च नरकाः सन्ति अवीचिप्रमुखाः प्रिये॥ 13-230-16(90451)
क्रोशन्तश्च रुदन्तश्च वेदनर्ता भृशातुराः।
केचिद्भमन्तश्चेष्टन्ते केचिद्धावन्ति चातुराः॥ 13-230-17(90452)
आधावन्तो निवार्यन्ते शूलहस्तैर्यतस्ततः।
रुजार्दितास्तृषायुक्ताः प्राणिनः पापकारिणः॥ 13-230-18(90453)
यावत्पूर्वकृतं तावन्न मुच्यन्ते कथञ्चन।
क्रिमिभिर्भक्ष्यमाणाश्च वेदनार्तास्तृषान्विताः॥ 13-230-19(90454)
संस्मरन्तः स्वकं पापं कृतमात्मापराधजम्।
शोचन्तस्तत्र तिष्ठन्ति यावत्पापक्षयं प्रिये।
एवं भुक्त्वा तु नरकं मुच्यन्ते पापसंक्षयात्॥ 13-230-20(90455)
उमोवाच। 13-230-21x(7617)
भगवन्कतिकालं ते तिष्ठन्ति नरकेषु वै॥ 13-230-21(90456)
महेश्वर उवाच। 13-230-22x(7618)
शतवर्षसहस्राणामादिं कृत्वा हि जन्तवः। 13-230-22(90457)
तिष्ठन्ति नरकावासाः प्रलयान्तमिति स्थितिः॥ 13-230-22(90458)
उमोवाच। 13-230-23x(7619)
भगवंस्तेषु के तत्र तिष्ठन्तीति वद प्रभो॥ 13-230-23(90459)
महेश्वर उवाच। 13-230-24x(7620)
रौरवे शतसाहस्रं वर्षाणामिति संस्थितिः। 13-230-24(90460)
मानुषघ्नाः कृतघ्नाश्च तथैवानृतवादिनः॥ 13-230-24(90461)
द्वितीये द्विगुणं कालं पच्यन्ते तादृशा नराः।
महापातकयुक्तास्तु तृतीये दुःखमाप्नुयुः॥ 13-230-25(90462)
एतावन्मानुषसहं परमन्येषु लक्ष्यते॥ 13-230-26(90463)
यक्षा विद्याधराश्चैव काद्रवेयाश्च किंनराः।
गन्धर्वभूतसङ्घाश्च तेषां पापयुता भृशम्।
चतुर्थे परिपच्यन्ते तादृशा नरकाः स्मृताः॥
चतुर्थे परितप्यन्ते यावद्युगविपर्ययः। 13-230-27(90464)
सहन्तस्तादृशं घोरं पञ्चकष्टे तु यादृशम्।
तत्रास्य चिरदुःखस्य ह्यधोन्यान्विद्धि मानुषान्॥ 13-230-28(90465)
एवं ते नरकान्भुक्त्वा तत्र क्षपितकल्मषाः।
नरकेभ्यो विमुक्ताश्च जायन्ते कृमिजातिषु॥ 13-230-29(90466)
उद्भेदजेषु वा केचिदत्रापि क्षीणकल्मषाः।
पुनरेव प्रजायन्ते मृगपक्षिषु शोभने।
मृगपक्षिषु तद्भुक्त्वा लभन्ते मानुषं पदम्॥ 13-230-30(90467)
उमोवाच। 13-230-31x(7621)
नानाजातिषु केनैव जायन्ते पापकारिणः॥ 13-230-31(90468)
महेश्वर उवाच। 13-230-32x(7622)
तदहं ते प्रवक्ष्यामि यत्त्वमिच्छसि शोभने।
सर्वदाऽऽत्मा कर्मवशो नानाजातिषु जायते॥ 13-230-32(90469)
यश्च मांसप्रियो नित्यं काकगृध्नान्स संस्पृशेत्।
सुरापः सततं मर्त्यः सूकरत्वं व्रजेद्भुवम्॥ 13-230-33(90470)
अभक्ष्यभक्षणो मर्त्यः काकजातिषु जायते।
आत्मघ्नो यो नरः कोपात्प्रेतजातिसु तिष्ठति॥ 13-230-34(90471)
पैशुन्यात्परिवादाच्च कुक्कुटत्वमवाप्नुयात्।
नास्तिकश्चैव यो मूर्खो मृगजातिं स गच्छति॥ 13-230-35(90472)
हिंसाविहारस्तु नरः क्रिमिकीटेषु जायते।
अतिमानयुतो नित्यं प्रेत्य गर्दभतां व्रजेत्॥ 13-230-36(90473)
अगम्यागमनाच्चैव परदारनिषेवणात्।
मूषिकत्वं व्रजेन्मर्त्यो नास्ति तत्र विचारणा॥ 13-230-37(90474)
कृतघ्नो मित्रघाती च सृगालवृकजातिषु।
कृतघ्नः पुत्रघाती च स्थावरेष्वथ तिष्ठति॥ 13-230-38(90475)
एवमाद्यशुभं कृत्वा नरा निरयगामिनः।
तांस्तान्भावान्प्रपद्यन्ते स्वकृतस्यैव कारणात्॥ 13-230-39(90476)
एवंजातिषु निर्देश्याः प्राणिनः पापकारिणः।
कथंचित्पुनरुत्पद्यि लभन्ते मानुषं पदम्॥ 13-230-40(90477)
बहुशश्चाग्निसङ्क्रान्तं लोहं शुचिमयं तथा।
बहुदुःखाभिसन्तप्तस्तथाऽऽत्मा शोध्यते बलात्।
तस्मात्सुदुर्लभं चेति विद्धि जन्मसु मानुषम्॥ ॥ 13-230-41(90478)
इति श्रीमन्महाभारते अनुशासनपर्वणि दानधर्मपर्वणि त्रिंशदधिकद्विशततमोऽध्यायः॥ 230 ॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|